horizontal rule

鍏虫敞鍏紬鍙凤紝闃呰鍏ㄩ儴鐜拌娉曞緥銆佽鏀挎硶瑙勭瓑锛屼簡瑙f渶鏂版硶寰嬭祫璁紝杩樻湁鏇村

张律师欢迎您的访问。

金刚经梵英汉 3 般若波罗蜜多心经玄奘译) Sūtra du Cœur Heart Sutra

金刚经

The Diamond Sutra

 वज्रच्छेदिका नाम त्रिशतिका प्रज्ञापारमिता।

॥नमो भगवत्या आर्यप्रज्ञापारमितायै॥



एवं मया श्रुतम्। एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्थं त्रयोदशभिर्भिक्षुशतैः संबहुलैश्च बोधिसत्त्वैर्महासत्त्वैः। अथ खलु भगवान् पूर्वाह्णकालसमये निवास्य पात्रचीवरमादाय श्रावस्तीं महानगरीं पिण्डाय प्राविक्षत्। अथ खलु भगवान् श्रावस्तीं महानगरीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिशाम्य पादौ प्रक्षाल्य न्यषीदत्प्रज्ञप्त एवासने पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखीं स्मृतिमुपस्थाप्य। अथ खलु संबहुला भिक्षवो येन भगवांस्तेनोपसंक्रामन्। उपसंक्रम्य भगवतः पादौ शिरोभिरभिवन्द्य भगवन्तं त्रिष्प्रदक्षिणीकृत्य एकान्ते न्यषीदन्॥१॥



तेन खलु पुनः समयेनायुष्मान् सुभुतिस्तस्यामेव पर्षदि संनिपतितोऽभूत्संनिषण्णः। अथ खल्वायुष्मान् सुभूतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्- आश्चर्यं भगवन्, परमाश्चर्यं सुगत, यावदेव तथागतेनार्हता सम्यक्संबुद्धेन बोधिसत्त्वा महासत्त्वा अनुपरिगृहीताः परमेणानुग्रहेण। आश्चर्यं भगवन् यावदेव तथागतेनार्हता सम्यक्संबुद्धेन बोधिसत्त्वा महासत्त्वाः परीन्दिताः परमया परीन्दनया। तत्कथं भगवन् बोधिसत्त्वयानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा वा स्थातव्यं कथं प्रतिपत्तव्यं कथं चित्तं प्रग्रहीतव्यम् ?



एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- साधु साधु सुभूते, एवमेतत्सुभूते, एवमेतद्यथा वदसि। अनुपरिगृहीतास्तथागतेन बोधिसत्त्वा महासत्त्वाः परमेणानुग्रहेण। परीन्दितास्तथागतेन बोधिसत्त्वा महासत्त्वाः परमया परीन्दनया। तेन हि सुभूते शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्येऽहं ते-यथा बोधिसत्त्वयानसंप्रस्थितेन स्थातव्यं यथा प्रतिपत्तव्यं यथा चित्तं प्रग्रहीतव्यम्। एवं भगवन् इत्यायुष्यान् सुभूतिर्भगवतः प्रत्यश्रौषीत्॥२॥



भगवानस्यैतदवोचत्-इह सुभूते बोधिसत्त्वयानसंप्रस्थितेनैव चित्तमुत्पादयितव्यम्-यावन्तः सुभूते सत्त्वाः सत्त्वधातौ सत्त्वसंग्रहेण संगृहीता अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा रूपिणो वा अरूपिणो वा संज्ञिनो वा असंज्ञिनो वा नैवसंज्ञिनो नासंज्ञिनो वा, यावान् कश्चित्सत्त्वधातुः प्रज्ञप्यमानः प्रज्ञप्यते, ते च मया सर्वेऽनुपधिशेषे निर्वाणधातौ परिनिर्वापयितव्याः। एवमपरिमाणानपि सत्त्वान् परिनिर्वाप्य न कश्चित्सत्त्वः परिनिर्वापितो भवति। तत्कस्य हेतोः ? सचेत्सुभूते बोधिसत्त्वस्य सत्त्वसंज्ञा प्रवर्तेत, न स बोधिसत्त्व इति वक्तव्यः। तत्कस्य हेतोः ? न स सुभूते बोधिसत्त्वो वक्तव्यो यस्य सत्त्वसंज्ञा प्रवर्तेत, जीवसंज्ञा वा पुद्गलसंज्ञा व प्रवर्तेत॥३॥

अपि तु खलु पुनः सुभुते न बोधिसत्त्वेन वस्तुप्रतिष्ठितेन दानं दातव्यम्, न क्वचित्प्रतिष्ठितेन दानं दातव्यम्। न रूपप्रतिष्ठितेन दानं दातव्यम्। न शब्दगन्धरसस्प्रष्टव्यधर्मेषु प्रतिष्ठितेन दानं दातव्यम्। एवं हि सूभूते बोधिसत्त्वेन महासत्त्वेन दानं दातव्यं यथा न निमित्तसंज्ञायामपि प्रतितिष्ठेत्। तत्कस्य हेतोः ? यः सुभूते बोधिसत्त्वोऽप्रतिष्ठितो दानं ददाति, तस्य सुभूते पुण्यस्कन्धस्य न सुकरं प्रमाणामुद्ग्रहीतुम्। तत्किं मन्यसे सुभूते सुकरं पूर्वस्यां दिशि आकाशस्य प्रमाणमुद्ग्रहीतुम् ? सुभूतिराह-नो हीदं भगवन्। भगवानाह- एवं दक्षिणपश्चिमोत्तरासु अध ऊर्ध्वं दिग्विदिक्षु समन्ताद्दशसु दिक्षु सुकरमाकाशस्य प्रमाणमुद्ग्रहीतुम् ? सुभूतिराह-नो हीदं भगवन्। भगवानाह-एवमेव सुभूते यो बोधिसत्त्वोऽप्रतिष्ठितो दानं ददाति, तस्य सुभूते पुण्यस्कन्धस्य न सुकरं प्रमाणमुद्ग्रहीतुम्। एवं हि सुभूते बोधिसत्त्वयानसंप्रस्थितेन दानं दातव्यं यथा न निमित्तसंज्ञायामपि प्रतितिष्ठेत्॥४॥

相关阅读:prajñāpāramita-hṛdayam sūtra

Vajracchedika Prajna Paramita 05 10 15 20 25

张律师感谢您的访问。

瀹硶 娉曞緥 琛屾斂娉曡 鍦版柟娉曡 澧冨娉曡 鍙告硶瑙i噴 鍏稿瀷妗堜緥 鍥介檯娉曞強鍥介檯鎯緥

铏氫綅浠ュ緟 甯稿勾娉曞緥椤鹃棶锛氫綍姝㈡槸浼佷笟鐨勪繚鍋ュ尰鐢�