张律师欢迎您的访问。
Vajracchedika Prajna Paramita 般若波罗蜜多心经(玄奘译) Sūtra du Cœur Heart Sutra
तत्किं मन्यसे सुभूते लक्षणसंपदा तथागतो
द्रष्टव्यः ? सुभूतिराह-नो हीदं भगवन्। न
लक्षणसंपदा तथागतो द्रष्टव्यः। तत्कस्य हेतोः
? या सा भगवन् लक्षणसंपत्तथागतेन भाषिता
सैवालक्षणसंपत्। एवमुक्ते भगवानायुष्मन्तं
सुभूतिमेतदवोचत् यावत्सुभूते लक्षणसंपत्
तावन्मृषा, यावदलक्षणसंपत् तावन्न मृषेति हि
लक्षणालक्षणतस्तथागतो द्रष्टव्यः॥५॥
एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-
अस्ति भगवन्। केचित्सत्त्वा
भविष्यन्त्यनागतेऽध्वनि पश्चिमे काले पश्चिमे
समये पश्चिमायां पञ्चशत्यां
सद्धर्मविप्रलोपकाले वर्तमाने, ये
इमेष्वेवंरूपेषु सूत्रान्तपदेषु भाष्यमाणेषु
भूतसंज्ञामुत्पादयिष्यन्ति। अपि तु खलु पुनः
सुभूते भविष्यन्त्यनागतेऽध्वनि बोधिसत्त्वा
महासत्त्वाः पश्चिमे काले पश्चिमे समये
पश्चिमायां पञ्चशत्यां सद्धर्मविप्रलोपे
वर्तमाने गुणवन्तः शीलवन्तः प्रज्ञावन्तश्च
भविष्यन्ति, ये इमेष्वेवंरूपेषु सूत्रान्तपदेषु
भाष्यमाणेषु भूतसंज्ञामुत्पादयिष्यन्ति। न खलु
पुनस्ते सुभूते बोधिसत्त्वा महासत्त्वा
एकबुद्धपर्युपासिता भविष्यन्ति,
नैकबुद्धावरोपितकुशलमूला भविष्यन्ति। अपि तु
खलु पुनः सुभूते अनेकबुद्धशतसहस्रपर्युपासिता
अनेकबुद्धशतसहस्रावरोपितकुशलमूलास्ते
बोधिसत्त्वा महासत्त्वा भविष्यन्ति, ये
इमेष्वेवंरूपेषु सूत्रान्तपदेषु भाष्यमाणेषु
एकचित्तप्रसादमपि प्रतिलप्स्यन्ते। ज्ञातास्ते
सुभूते तथागतेन बुद्धज्ञानेन, दृष्टास्ते
सुभूते तथागतेन बुद्धचक्षुषा, बुद्धास्ते
सुभूते तथागतेन। सर्वे ते सुभूते
अप्रमेयमसंख्येयं पुण्यस्कन्धं प्रसविष्यन्ति
प्रतिग्रहीष्यन्ति। तत्कस्य हेतोः ? न हि
सुभूते तेषां बोधिसत्त्वानां
महासत्त्वानामात्मसंज्ञा प्रवर्तते, न
सत्त्वसंज्ञा, न जीवसंज्ञा, न पुद्गलसंज्ञा
प्रवर्तते। नापि तेषां सुभूते बोधिसत्त्वानां
महासत्त्वानां धर्मसंज्ञा प्रवर्तते। एवं
नाधर्मसंज्ञा। नापि तेषां सुभूते संज्ञा
नासंज्ञा प्रवर्तते। तत्कस्य हेतोः ?
सचेत्सुभूते तेषां बोधिसत्त्वानां महासत्त्वानां
धर्मसंज्ञा प्रवर्तेत, स एव तेषामात्मग्राहो
भवेत्, सत्त्वग्राहो जीवग्राहः पुद्गलग्राहो
भवेत्। सचेदधर्मसंज्ञा प्रवर्तेत, स एव
तेषामात्मग्राहो भवेत्, सत्त्वग्राहो जीवग्राहः
पुद्गलग्राह इति। तत्कस्य हेतोः ? न खलु पुनः
सुभूते बोधिसत्त्वेन महासत्त्वेन धर्म
उद्ग्रहीतव्यो नाधर्मः। तस्मादियं तथागतेन
संधाय वाग्भाषिता-कोलोपमं
धर्मपर्यायमाजानद्भिधर्मा एव प्रहातव्याः
प्रागेवाधर्मा इति॥६॥
पुनरपरं भगवानायुष्मन्तं सुभूतिमेतदवोचत्-
तत्किं मन्यसे सुभूते, अस्ति स कश्चिद्धर्मो
यस्तथागतेनानुत्तरा
सम्यक्संबोधिरित्यभिसंबुद्धः, कश्चिद्वा
धर्मस्तथागतेन देशितः ? एवमुक्ते आयुष्मान्
सुभूतिर्भगवन्तमेतदवोचत्-यथाहं भगवन् भगवतो
भाषितस्यार्थमाजानामि, नास्ति स कश्चिद्धर्मो
यस्तथागतेन अनुत्तरा
सम्यक्संबोधिरित्यभिसंबुद्धः, नास्ति धर्मो
यस्तथागतेन देशितः। तत्कस्य हेतोः ? योऽसौ
तथागतेन धर्मोऽभिसंबुद्धो देशितो वा, अग्राह्यः
सोऽनभिलप्यः। न स धर्मो नाधर्मः। तत्कस्य हेतोः
? असंस्कृतप्रभाविता ह्यार्यपुद्गलाः॥७॥
भगवानाह- तत्किं मन्यसे सुभूते यः
कश्चित्कुलपुत्रो वा कुलदुहिता वा इमं
त्रिसाहस्रमहासाहस्रं लोकधातुं
सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भयः
सम्यक्संबुद्धेभ्यो दानं दद्यात्, अपि नु स
कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु
पुण्यस्कन्धं प्रसुनुयात्। सुभूतिराह-बहु भगवन्,
बहु सुगत स कुलपुत्रो वा कुलदुहिता वा
ततोनिदानं पुण्यस्कन्धं प्रसुनुयात्। तत्कस्य
हेतोः ? योऽसौ भगवन् पुण्यस्कन्धस्तथागतेन
भाषितः, अस्कन्धः स तथागतेन भाषितः।
तस्मात्तथागतो भाषते- पुण्यस्कन्धः
पुण्यस्कन्ध इति। भगवानाह-यश्च खलु पुनः सुभूते
कुलपुत्रो वा कुलदुहिता व इमं
त्रिसाहस्रमहासाहस्रं लोकधातुं
सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्यः
सम्यक्संबुद्धेभ्यो दानं दद्यात्, यश्च इतो
धर्मपर्यायादन्तशश्चतुष्पादिकामपि
गाथामुद्गृह्य परेभ्यो विस्तरेण देशयेत्
संप्रकाशयेत्, अयमेव ततोनिदानं बहुतरं
पुण्यस्कन्धं प्रसुनुयादप्रमेयसंख्येयम्।
तत्कस्य हेतोः ? अतोनिर्जाता हि सुभूते
तथागतानामर्हतां सम्यक्संबुद्धानामनुत्तरा
सम्यक्संबोधिः, अतोनिर्जाताश्च बुद्धा भगवन्तः।
तत्कस्य हेतोः ? बुद्धधर्मा बुद्धधर्मा इति
सुभूते अबुद्धधर्माश्चैव ते तथागतेन भाषिताः।
तेनोच्यन्ते बुद्धधर्मा इति॥८॥
तत्किं मन्यसे सुभूते अपि नु स्रोतआपन्नस्यैवं
भवति-मया स्रोतआपत्तिफलं प्राप्तमिति?
सुभूतिराह-नो हीदं भगवन्। न स्रोतआपन्नस्यैवं
भवति-मया स्रोतआपत्तिफलं प्राप्तमिति। तत्कस्य
हेतोः ? न हि स भगवन् कंचिद्धर्ममापन्नः,
तेनोच्यते स्रोतआपन्न इति। न रूपमापन्नो न
शब्दान् न गन्धान् न रसान् न स्प्रष्टव्यान्
धर्मानापन्नः। तेनोच्यते स्रोतआपन्न इति।
सचेद्भगवन् स्रोतआपन्नस्यैवं भवेत्- मया
स्रोतआपत्तिफलं प्राप्तमिति, स एव
तस्यात्मग्राहो भवेत्, सत्त्वग्राहो जीवग्राहः
पुद्गलग्राहो भवेदिति॥
भगवानाह- तकिं मन्यसे सुभूते अपि नु
सकृदागामिन एवं भवति-मया सकृदागामिफलं
प्राप्तमिति ? सुभूतिराह-नो हीदं भगवन्। स
सकृदागामिन एवं भवति-मया सकृदागामिफलं
प्राप्तमिति। तत्कस्य हेतोः ? न हि स
कश्चिद्धर्मो यः सकृदागामित्वमापन्नः।
तेनोच्यते सकृदागामीति॥
भगवानाह-तत्किं मन्यसे सुभूते अपि नु अनागामिन
एवं भवति-मयानागामिफलं प्राप्तमिति ?
सुभूतिराह-नो हीदं भगवन्। न अनागामिन एवं
भवति-मया अनागामिफलं प्राप्तमिति। तत्कस्य हेतोः
? न हि स भगवन् कश्चिद्धर्मो
योऽनागामित्वमापन्नः। तेनोच्यते अनागामीति॥
भगवानाह- तत्किं मन्यसे सुभूते अपि नु अर्हत
एवं भवति-मया अर्हत्त्वं प्राप्तमिति ?
सुभूतिराह-नो हीदं भगवन्। नार्हत एवं भवति-मया
अर्हत्त्वं प्राप्तमिति। तत्कस्य हेतोः ? न हि
स भगवन् कश्चिद्धर्मो योऽर्हन्नाम।
तेनोच्यते-अर्हन्निति। सचेद्भगवन् अर्हत एवं
भवेत्-मया अर्हत्त्वं प्राप्तमिति, स एव
तस्यात्मग्राहो भवेत्, सत्त्वग्राहो जीवग्राहः
पुद्गलग्राहो भवेत्। तत्कस्य हेतोः ? अहमस्मि
भगवंस्तथागतेनार्हता सम्यक्संबुद्धेन
अरणाविहारिणामग्र्यो निर्दिष्टः। अहमस्मि भगवन्
अर्हन् वीतरागः। न च मे भगवन्नेवं भवति-
अर्हन्नस्म्यहं वीतराग इति। सचेन्मम भगवन्नेवं
भवेत्-मया अर्हत्त्वं प्राप्तमिति, न मां
तथागतो व्याकरिष्यदरणाविहारिणामग्र्यः सुभूतिः
कुलपुत्रो न क्वचिद्विहरति, तेनोच्यते
अरणाविहारी अरणाविहारीति॥९॥
相关阅读:prajñāpāramita-hṛdayam sūtra
Vajracchedika Prajna Paramita 10 心经注解 灵根育孕源流出 心性修持大道生-西游记-四大名著-培训网
张律师感谢您的访问。